श्रवणम्

5.32.7 समानपद
उद्यदिन्द्रो᳚ मह॒ते दा᳚न॒वाय॒ वध॒र्यमि᳚ष्ट॒ सहो॒ अप्र᳚तीतम् ।
यदीं॒ वज्र᳚स्य॒ प्रभृ᳚तौ द॒दाभ॒ विश्व᳚स्य ज॒न्तोर᳚ध॒मं च᳚कार ॥
▶ पदपाठः (Word-by-word)
उत् । यत् । इन्द्रः᳚ । म॒ह॒ते । दा॒न॒वाय᳚ । वधः᳚ । यमि᳚ष्ट । सहः᳚ । अप्र᳚ति॑इतम् ।
यत् । ई॒म् । वज्र᳚स्य । प्र॑भृ᳚तौ । द॒दाभ᳚ । विश्व᳚स्य । ज॒न्तोः । अ॒ध॒मम् । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदाइन्द्रः महतेप्रभूतायदानवाय वृत्रासुराय सहः शत्रूणामभिभवितृअप्रतीतं केनाप्यप्रतिगतंवधोवज्रंउद्यमिष्ट उदयच्छ्त् यद्यदावज्रस्यप्रभृतौ प्रहृतौ ग्रहरणेसति हृग्रहोर्भइतिभत्वं ईमेनंवृत्रं ददाभ अहिंसीत् तदाविश्वस्यसर्वस्यजन्तोः प्रणिनः अधमंनीचंचकार अकरोत् ॥ ७ ॥