प्र शर्धा᳚य॒ मारु᳚ताय॒ स्वभा᳚नव इ॒मां वाच᳚मनजा पर्वत॒च्युते᳚ ।
घ॒र्म॒स्तुभे᳚ दि॒व आ पृ᳚ष्ठ॒यज्व᳚ने द्यु॒म्नश्र᳚वसे॒ महि᳚ नृ॒म्णम᳚र्चत ॥
घ॒र्म॒स्तुभे᳚ दि॒व आ पृ᳚ष्ठ॒यज्व᳚ने द्यु॒म्नश्र᳚वसे॒ महि᳚ नृ॒म्णम᳚र्चत ॥
पदपाठः (Word-by-word)
प्र । शर्धा᳚य । मारु᳚ताय । स्व॑भा᳚नवः । इ॒माम् । वाच᳚म् । अ॒न॒ज॒ । प॒र्व॒त॒॑च्युते᳚ ।
घ॒र्म॒॑स्तुभे᳚ । दि॒वः । आ । पृ॒ष्ठ॒॑यज्व᳚ने । द्यु॒म्न॑श्र᳚वसे । महि᳚ । नृ॒म्णम् । अ॒र्च॒त॒ ॥
घ॒र्म॒॑स्तुभे᳚ । दि॒वः । आ । पृ॒ष्ठ॒॑यज्व᳚ने । द्यु॒म्न॑श्र᳚वसे । महि᳚ । नृ॒म्णम् । अ॒र्च॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
प्रअनजेतिसंबन्धः मारुताय मरुत्संबन्धिने शर्धायबलाय इमां क्रियमाणां वाचं स्तुतिं प्रानज प्रापय कीदृशाय स्वभानवे स्वायत्तते- जसे पर्वतच्युते पर्वतस्यच्यावयित्रे घर्मस्तुभे घर्मस्यस्तोभयित्रे दिवआद्युलोकादागच्छते प्रुष्ठयज्वने षट्पृष्ठैरथंतरबृहदादिभिरीजानाय द्युम्नश्रवसे द्योतमानान्नाय महि महत् प्रभूतं नृम्णं धनं ह्विर्लक्षणंअर्चत ददतेत्यर्थः ॥ १ ॥
कारीर्यांप्रथमस्याःपिंड्याः प्रवोमरुतइतियाज्या सूत्रितंच-प्रवोमरुतस्तविषाउदन्यवआयंनरइति ।