श्रवणम्

5.54.7
न स जी᳚यते मरुतो॒ न ह᳚न्यते॒ न स्रे᳚धति॒ न व्य᳚थते॒ न रि᳚ष्यति ।
नास्य॒ राय॒ उप᳚ दस्यन्ति॒ नोतय॒ ऋषिं᳚ वा॒ यं राजा᳚नं वा॒ सुषू᳚दथ ॥
▶ पदपाठः (Word-by-word)
न । सः । जी॒य॒ते॒ । म॒रु॒तः॒ । न । ह॒न्य॒ते॒ । न । स्रे॒ध॒ति॒ । न । व्य॒थ॒ते॒ । न । रि॒ष्य॒ति॒ ।
न । अ॒स्य॒ । रायः᳚ । उप᳚ । द॒स्य॒न्ति॒ । न । ऊ॒तयः᳚ । ऋषि᳚म् । वा॒ । यम् । राजा᳚नम् । वा॒ । सुसू᳚दथ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोयूयं यमृषिं मंत्रद्रष्टारं ब्रह्मणं राजानंवा सुषूदथ क्षारयथ प्रेरयथ स्त्कर्मसुसऋषिः राजावानजीयते अन्यैर्नपराभाव्यते जिजये- ज्यावयोहानावित्यस्यवारुपं हेमरुतः नहन्यते नहिंस्यते अत्यर्थं प्राणैर्नवियुज्यते नस्रेधति नक्षीयते नव्यथते नपीड्यते नरिष्यति नहिंस्य- ते अत्रहिंसाबाधमात्रं नास्यरायोधनानि नोपदस्यन्ति नोपक्षीयन्ते तथानोतयोरक्षाअप्युपदस्यन्ति ॥ ७ ॥

कारीर्यामेवतृतीयस्याः पिंड्यायाज्यानियुत्वंतइत्येषा सूत्रितंच-नियुत्वंतोग्रामजितोयथानरोग्नेबाधस्वविमृधोविदुर्गहेति ।