वि॒द्युन्म᳚हसो॒ नरो॒ अश्म᳚दिद्यवो॒ वात᳚त्विषो म॒रुतः᳚ पर्वत॒च्युतः᳚ ।
अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा᳚दुनी॒वृतः᳚ स्त॒नय᳚दमा रभ॒सा उदो᳚जसः ॥
अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा᳚दुनी॒वृतः᳚ स्त॒नय᳚दमा रभ॒सा उदो᳚जसः ॥
पदपाठः (Word-by-word)
वि॒द्युत्॑म᳚हसः । नरः᳚ । अश्म᳚॑दिद्यवः । वात᳚॑त्विषः । म॒रुतः᳚ । प॒र्व॒त॒॑च्युतः᳚ ।
अ॒ब्द॒॑या । चि॒त् । मुहुः᳚ । आ । ह्रा॒दु॒नि॒॑वृतः᳚ । स्त॒नय᳚त्॑अमाः । र॒भ॒साः । उत्॑ओ᳚जसः ॥
अ॒ब्द॒॑या । चि॒त् । मुहुः᳚ । आ । ह्रा॒दु॒नि॒॑वृतः᳚ । स्त॒नय᳚त्॑अमाः । र॒भ॒साः । उत्॑ओ᳚जसः ॥
सायणभाष्यम् (Sayana Commentary)
विद्युन्महसोविद्योतमानतेजसोनरोवृष्ट्यादेर्नेतारः अश्मदिद्यवोव्याप्तायुधाः अश्मसारमयायुधावा वातत्विषः प्राप्तदीप्तयः पर्वत- च्युतः पर्ततानांमेघानांवाच्यावयितारः अब्दयामुहुः उदकानांदातारः शसोयाजादेशः चिदितिपूरणः ह्रादुनीवृतः ह्रादुन्याः अशनेःप्रवर्त- काः स्तनयदमाः अमाशब्दः साहित्यवाची शब्दोपेतगणाइत्यर्थः रभसा वृष्ट्यर्थमुद्युंजानाः उदोजसः उद्धतबलाः मरुतोवृष्ट्यर्थंप्रदुर्भव- न्तीत्यर्थः ॥ ३ ॥