श्रवणम्

5.54.11
अंसे᳚षु व ऋ॒ष्टयः᳚ प॒त्सु खा॒दयो॒ वक्ष᳚स्सु रु॒क्मा म᳚रुतो॒ रथे॒ शुभः᳚ ।
अ॒ग्निभ्रा᳚जसो वि॒द्युतो॒ गभ᳚स्त्यो॒ः शिप्रा᳚ः शी॒र्षसु॒ वित᳚ता हिर॒ण्ययी᳚ः ॥
▶ पदपाठः (Word-by-word)
अंसे᳚षु । वः॒ । ऋ॒ष्टयः᳚ । प॒त्॑सु । खा॒दयः᳚ । वक्षः᳚॑सु । रु॒क्माः । म॒रु॒तः॒ । रथे᳚ । शुभः᳚ ।
अ॒ग्नि॑भ्रा᳚जसः । वि॒॑द्युतः᳚ । गभ᳚स्त्योः । शिप्राः᳚ । शी॒र्ष॑सु᳚ । वि॑त᳚ताः । हि॒र॒ण्ययीः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोवोयुष्माकमंसेषु ऋष्टयआयुधानिभासन्तइतिशेषः पत्सुखादयः कटकाः वक्षः सुरुक्माः हाराः रथेशुभः मधुराप्रुषाआपः अग्निभ्राज्सोग्निदीप्ताः विद्युतोगभस्त्योः हस्तयोर्भासन्तइत्यर्थः शीर्षसुशिरः सुहिरण्ययीः हिरण्यमय्यः शिप्राः उष्णीषमय्यः विततावि -स्तृताः प्रतिवाक्यंवितताइतिवासंबन्धनीयं ॥ ११ ॥