श्रवणम्

5.54.12 समानपद
तं नाक᳚म॒र्यो अगृ᳚भीतशोचिषं॒ रुश॒त्पिप्प᳚लं मरुतो॒ वि धू᳚नुथ ।
सम᳚च्यन्त वृ॒जनाति᳚त्विषन्त॒ यत्स्वर᳚न्ति॒ घोषं॒ वित᳚तमृता॒यवः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । नाक᳚म् । अ॒र्यः । अगृ᳚भीत॑शोचिषम् । रुश᳚त् । पिप्प᳚लम् । म॒रु॒तः॒ । वि । धू॒नु॒थ॒ ।
सम् । अ॒च्य॒न्त॒ । वृ॒जना᳚ । अति᳚त्विषन्त । यत् । स्वर᳚न्ति । घोष᳚म् । वि॑त᳚तम् । ऋ॒त॒॑यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोअर्योगंतारोयूयं तं प्रसिद्धंनाकमादित्यं नास्मिन्नकमस्तीतिनाकः तं अगृभीतशोचिषं असुरैरनपहृततेजस्कं तं रुशच्छुभ्रवर्णं पिप्पलमुदकं विधूनुथ विविधंचालयथ अयंद्विकर्मकः यद्यदा वृजना बलानि समच्यन्त संगताबलिनोभवथ हविर्भिरस्मद्दत्तैरितिभावः पश्चादतित्विषन्त दीप्ताभवथ उभयत्रपुरुषव्यत्ययः यद्वा यदा असुरावृजनाबलैः सस्मच्यन्त अतित्विषन्त तदा घोषं भयजनकं शब्दं विततं विस्तृतं स्वरन्ति कुरुतेत्यर्थः ऋतायवउदकमिच्छन्तोयूयं यद्वोत्तरार्धंकुत्विग्यजमानपरतयाव्याख्येयः यद्यदा ऋतायवोयज्ञकामाः यजमानादयः यदा समच्यन्त संगताः वृजना बलानि अतित्विषन्त च स्वरन्ति घोषं स्तोत्रं विततं तदानीं पिप्पलं विधूनुथेतिसंबन्धः ॥ १२ ॥