यन्म᳚रुतः सभरसः स्वर्णर॒ः सूर्य॒ उदि᳚ते॒ मद᳚था दिवो नरः ।
न वो॑श्वा᳚ः श्रथय॒न्ताह॒ सिस्र᳚तः स॒द्यो अ॒स्याध्व᳚नः पा॒रम᳚श्नुथ ॥
न वो॑श्वा᳚ः श्रथय॒न्ताह॒ सिस्र᳚तः स॒द्यो अ॒स्याध्व᳚नः पा॒रम᳚श्नुथ ॥
पदपाठः (Word-by-word)
यत् । म॒रु॒तः॒ । स॒॑भ॒र॒सः॒ । स्वः॒॑न॒रः॒ । सूर्ये᳚ । उत्॑इ᳚ते । मद᳚थ । दि॒वः॒ । न॒रः॒ ।
न । वः॒ । अश्वाः᳚ । श्र॒थ॒य॒न्त॒ । अह᳚ । सिस्र᳚तः । स॒द्यः । अ॒स्य । अध्व᳚नः । पा॒रम् । अ॒श्नु॒थ॒ ॥
न । वः॒ । अश्वाः᳚ । श्र॒थ॒य॒न्त॒ । अह᳚ । सिस्र᳚तः । स॒द्यः । अ॒स्य । अध्व᳚नः । पा॒रम् । अ॒श्नु॒थ॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः सभरसः सहबलाः स्वर्णरः सर्वस्यनेतारोयूयं यद्यदा सूर्यउदिते उद्गते मध्याह्ने मदथ सोमेन हेदिवोद्युलोकस्य नरोनेतारः यदा सोमंपातुमिच्छथेत्यर्थः तदावोश्वाः सिस्रतः सरन्तोनहश्रथयन्त नैवश्लथयन्ति सद्यस्तदानीमेवास्याध्वनोदेवयजनमार्गस्य पारम- श्नुथ व्याप्नुथ यद्वा यदा सोमेनमदथ तदा त्वदीयाअश्वानशिथिलाभवन्ति यूयंच कृत्स्नस्य लोकत्रयमार्गस्य पारमश्नुथ ॥ १० ॥