यु॒ष्माद᳚त्तस्य मरुतो विचेतसो रा॒यः स्या᳚म र॒थ्यो॒३॒᳚ वय᳚स्वतः ।
न यो युच्छ᳚ति ति॒ष्यो॒३॒᳚ यथा᳚ दि॒वो॒३॒᳚॑स्मे रा᳚रन्त मरुतः सह॒स्रिण᳚म् ॥
न यो युच्छ᳚ति ति॒ष्यो॒३॒᳚ यथा᳚ दि॒वो॒३॒᳚॑स्मे रा᳚रन्त मरुतः सह॒स्रिण᳚म् ॥
पदपाठः (Word-by-word)
यु॒ष्मा॑द᳚त्तस्य । म॒रु॒तः॒ । वि॒॑चे॒त॒सः॒ । रा॒यः । स्या॒म॒ । र॒थ्यः᳚ । वय᳚स्वतः ।
न । यः । युच्छ᳚ति । ति॒ष्यः᳚ । यथा᳚ । दि॒वः । अ॒स्मे इति᳚ । र॒र॒न्त॒ । म॒रु॒तः॒ । स॒ह॒स्रिण᳚म् ॥
न । यः । युच्छ᳚ति । ति॒ष्यः᳚ । यथा᳚ । दि॒वः । अ॒स्मे इति᳚ । र॒र॒न्त॒ । म॒रु॒तः॒ । स॒ह॒स्रिण᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेविचेतसोविविधप्रज्ञाहेमरुतोयुष्मादत्तस्य युष्माभिर्दतस्य वयस्वतोन्नवतोरायोधनस्य स्याम भवेम स्वामिनः के रथ्योरथस्वामि- नोवयं योयुष्माभिर्दत्तोराः नयुच्छति नच्यवते यथा दिवः सकाशात्तिष्यआदित्योनयुच्छति तथा अस्मे अस्मासु सहस्रिणं अपरिमितं तंरायं ररन्त रमयत हेमरुतः ॥ १३ ॥