श्रवणम्

5.54.8
नि॒युत्व᳚न्तो ग्राम॒जितो॒ यथा॒ नरो᳚॑र्य॒मणो॒ न म॒रुतः᳚ कब॒न्धिनः᳚ ।
पिन्व॒न्त्युत्सं॒ यदि॒नासो॒ अस्व᳚र॒न्व्यु᳚न्दन्ति पृथि॒वीं मध्वो॒ अन्ध᳚सा ॥
▶ पदपाठः (Word-by-word)
नि॒युत्व᳚न्तः । ग्रा॒म॒॑जितः᳚ । यथा᳚ । नरः᳚ । अ॒र्य॒मणः᳚ । न । म॒रुतः᳚ । क॒ब॒न्धिनः᳚ ।
पिन्व᳚न्ति । उत्स᳚म् । यत् । इ॒नासः᳚ । अस्व᳚रन् । वि । उ॒न्द॒न्ति॒ । पृ॒थि॒वीम् । मध्वः᳚ । अन्ध᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

नियुत्वंतोनियुत्संज्ञकैरश्वैस्तद्वन्तोमरुतः ग्रामजितः संघात्मकस्यपदार्थस्यविश्लेषयितारः नरोनराकारानेतारोवामरुतः यद्वा नियुत्व- न्तः अयंशब्दोत्राश्वसामान्येवर्तते नितरां यवनवन्तोश्ववन्तोग्रामजितःग्रामस्यजेतारोनरइवमनुष्याइवतथाभवन्ति अर्यमणोनअर्यमप्रभृ- तयः आदित्याइवदीप्ताइतिशेषः तादृशामरुतःकवंधिनः उदकवन्तोभवन्ति यद्यदा इनासः ईश्वराः उत्स कूपादिनिम्नप्रदेशं मेघंवा पिन्व- न्ति प्याययंत्युदकेन यदा अस्वरन् शब्दयन्ति यदा व्युन्दन्ति पृथिवीं मध्वः मधुर्स्योदकस्यान्धसासारेण तदैवंभवन्ति यद्वा यदा अस्वरन् तदा पिन्वंत्युत्समिनासः तदांधसः पृथिवींव्युन्दन्तीति ॥ ८ ॥