अभ्रा᳚जि॒ शर्धो᳚ मरुतो॒ यद᳚र्ण॒सं मोष᳚था वृ॒क्षं क᳚प॒नेव᳚ वेधसः ।
अध᳚ स्मा नो अ॒रम᳚तिं सजोषस॒श्चक्षु᳚रिव॒ यन्त॒मनु᳚ नेषथा सु॒गम् ॥
अध᳚ स्मा नो अ॒रम᳚तिं सजोषस॒श्चक्षु᳚रिव॒ यन्त॒मनु᳚ नेषथा सु॒गम् ॥
पदपाठः (Word-by-word)
अभ्रा᳚जि । शर्धः᳚ । म॒रु॒तः॒ । यत् । अ॒र्ण॒सम् । मोष᳚थ । वृ॒क्षम् । क॒प॒ना॑इ᳚व । वे॒ध॒सः॒ ।
अध᳚ । स्म॒ । नः॒ । अ॒रम᳚तिम् । स॒॑जो॒ष॒सः॒ । चक्षुः᳚॑इव । यन्त᳚म् । अनु᳚ । ने॒ष॒थ॒ । सु॒॑गम् ॥
अध᳚ । स्म॒ । नः॒ । अ॒रम᳚तिम् । स॒॑जो॒ष॒सः॒ । चक्षुः᳚॑इव । यन्त᳚म् । अनु᳚ । ने॒ष॒थ॒ । सु॒॑गम् ॥
सायणभाष्यम् (Sayana Commentary)
हेवेधसोवृष्टेर्विधातारः हेमरुतः शर्धोभवतांगणमभ्राजि भ्राजते यद्यस्मादर्णसमुदकवन्तं वृक्षं वृश्र्यते विदार्यतेइतिवृक्षोमेघः तंमोषथ ताडयथेत्यर्थः कपनाइव इवेत्यनर्थकः कंपनाः सन्तः यद्वा कंपनाः क्रिमयोवृक्षंघुणादयः तेयथा मुष्णंतितद्वत् अध अपिच स्मेतिपूरणः नोस्मान्मामित्यर्थः हेसजोषसः युष्मासु परस्परंसमानप्रीतयोयूयं अरमतिं आरमणं धनादिकं प्रतियन्तं गच्छन्तं अनुनेषथ अनुक्रमेणनयथ सुगं सुगमनंमार्गं तत्रदृष्टान्तः-चक्षुरिव तद्यथामार्गप्रदर्शनेननायकंभवतितद्वत् ॥ ६ ॥