यू॒यं र॒यिं म᳚रुतः स्पा॒र्हवी᳚रं यू॒यमृषि᳚मवथ॒ साम᳚विप्रम् ।
यू॒यमर्व᳚न्तं भर॒ताय॒ वाजं᳚ यू॒यं ध᳚त्थ॒ राजा᳚नं श्रुष्टि॒मन्त᳚म् ॥
यू॒यमर्व᳚न्तं भर॒ताय॒ वाजं᳚ यू॒यं ध᳚त्थ॒ राजा᳚नं श्रुष्टि॒मन्त᳚म् ॥
पदपाठः (Word-by-word)
यू॒यम् । र॒यिम् । म॒रु॒तः॒ । स्पा॒र्ह॑वी᳚रम् । यू॒यम् । ऋषि᳚म् । अ॒व॒थ॒ । साम᳚॑विप्रम् ।
यू॒यम् । अर्व᳚न्तम् । भ॒र॒ताय᳚ । वाज᳚म् । यू॒यम् । ध॒त्थ॒ । राजा᳚नम् । श्रु॒ष्टि॒॑मन्त᳚म् ॥
यू॒यम् । अर्व᳚न्तम् । भ॒र॒ताय᳚ । वाज᳚म् । यू॒यम् । ध॒त्थ॒ । राजा᳚नम् । श्रु॒ष्टि॒॑मन्त᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतोयूयं रयिं धनं स्पार्हवीरं स्पृहणीयैःवीरैः पुत्रभृत्यादिभिरुपेतं धत्थ दत्य हेमरुतोयूयं सामविप्रं साम्नांविविधंप्रेरयितारं यद्वा सामसहिताविप्रायस्यतादृशं ऋषिमवथ रक्षथ हेयूयं अर्वन्तं अश्वं वाजमन्नंचभरताय देवानि बिभ्रते श्यावाश्वाय धत्थ हेमरुतोयूयं राजानं दीप्तंस्वामिनंवा श्रुष्टिमन्तं सुखवन्तं पुत्रमित्यर्थः धत्थ ॥ १४ ॥