प्र वो᳚ मरुतस्तवि॒षा उ᳚द॒न्यवो᳚ वयो॒वृधो᳚ अश्व॒युज॒ः परि᳚ज्रयः ।
सं वि॒द्युता॒ दध᳚ति॒ वाश᳚ति त्रि॒तः स्वर॒न्त्यापो॒॑वना॒ परि᳚ज्रयः ॥
सं वि॒द्युता॒ दध᳚ति॒ वाश᳚ति त्रि॒तः स्वर॒न्त्यापो॒॑वना॒ परि᳚ज्रयः ॥
पदपाठः (Word-by-word)
प्र । वः॒ । म॒रु॒तः॒ । त॒वि॒षाः । उ॒द॒न्यवः᳚ । व॒यः॒॑वृधः᳚ । अ॒श्व॒॑युजः᳚ । परि᳚॑ज्रयः ।
सम् । वि॒॑द्युता᳚ । दध᳚ति । वाश᳚ति । त्रि॒तः । स्वर᳚न्ति । आपः᳚ । अ॒वना᳚ । परि᳚॑ज्रयः ॥
सम् । वि॒॑द्युता᳚ । दध᳚ति । वाश᳚ति । त्रि॒तः । स्वर᳚न्ति । आपः᳚ । अ॒वना᳚ । परि᳚॑ज्रयः ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतोवोयुष्माकं गणाः प्रप्रादुर्भवंति कीदृशागणाः तविषाः दीप्तामहान्तोवा उदन्यवः उदकेच्छवोजगद्रक्षार्थं वयोवृधोन्नस्यवर्धयि- तारः अश्वयुजः ग्मनायरथेशानांयोक्तारः परिज्रयः परितोगन्तारः यदा विद्युतासंदधतिसंगच्छन्ते तदानीं त्रितः त्रिषुस्थानेषु तायमनोमे- घोमरुद्गणोवा वाशति शब्दयति अस्मिन्पक्षेसंघवादोयं तदाआपः परिज्रयः परितोगंत्र्यः आपोवना अवनौभूमौस्वरत्यधः पतंति ॥ २ ॥
विद्युन्महसइतितृतीयाकारीर्यामेवद्वितीयस्याः पिंड्यायाज्या सूत्रितंच-चिद्युन्महसोनरोश्मदिद्यवः कृष्णंनियानंहरयः सुपर्णाइति । तत्पाठस्तु ।