व्य१॒᳚क्तून्रु᳚द्रा॒ व्यहा᳚नि शिक्वसो॒ व्य१॒᳚न्तरि᳚क्षं॒ वि रजां᳚सि धूतयः ।
वि यदज्रा{4}॒ अज᳚थ॒ नाव᳚ ईं यथा॒ वि दु॒र्गाणि᳚ मरुतो॒ नाह᳚ रिष्यथ ॥
वि यदज्रा{4}॒ अज᳚थ॒ नाव᳚ ईं यथा॒ वि दु॒र्गाणि᳚ मरुतो॒ नाह᳚ रिष्यथ ॥
पदपाठः (Word-by-word)
वि । अ॒क्तून् । रु॒द्राः॒ । वि । अहा᳚नि । शि॒क्व॒सः॒ । वि । अ॒न्तरि᳚क्षम् । वि । रजां᳚सि । धू॒त॒यः॒ ।
वि । यत् । अज्रा᳚न् । अज᳚थ । नावः᳚ । ई॒म् । य॒था॒ । वि । दुः॒॑गानि᳚ । म॒रु॒तः॒ । न । अह᳚ । रि॒ष्य॒थ॒ ॥
वि । यत् । अज्रा᳚न् । अज᳚थ । नावः᳚ । ई॒म् । य॒था॒ । वि । दुः॒॑गानि᳚ । म॒रु॒तः॒ । न । अह᳚ । रि॒ष्य॒थ॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेरुद्राः रुद्रपुत्रामरुतः अक्तून् रात्रीः विअजथेत्युत्तरार्धगतेनसंबध्यते एवंसर्वत्रेति क्षिपथेतितस्यार्थः अहा अहान्यपि व्यजथ हेशिक्वसः शक्ताः सर्वमपिकर्तुं अन्तरिक्षं व्यजथ तथा रजांसि लोकान् व्यजथ धूतयःकंपकाः यद्यदा अज्रान् मेघान् व्यजथ गमयथ नावर्हं तायथास- मुद्रंतद्वत् दुर्गाणिशत्रुनगराणि विव्यजथ हेमरुतोनाहरिष्यथ नैवहिंसथ ॥ ४ ॥