तद्वो᳚ यामि॒ द्रवि᳚णं सद्यऊतयो॒ येना॒ स्व१॒᳚र्ण त॒तना᳚म॒ नॄ{4}र॒भि ।
इ॒दं सु मे᳚ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे᳚म॒ तर᳚सा श॒तं हिमा᳚ः ॥
इ॒दं सु मे᳚ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे᳚म॒ तर᳚सा श॒तं हिमा᳚ः ॥
पदपाठः (Word-by-word)
तत् । वः॒ । या॒मि॒ । द्रवि᳚णम् । स॒द्यः॒॑ऊ॒त॒यः॒ । येन᳚ । स्वः᳚ । न । त॒तना᳚म । नॄन् । अ॒भि ।
इ॒दम् । सु । मे॒ । म॒रु॒तः॒ । ह॒र्य॒त॒ । वचः᳚ । यस्य᳚ । तरे᳚म । तर᳚सा । श॒तम् । हिमाः᳚ ॥
इ॒दम् । सु । मे॒ । म॒रु॒तः॒ । ह॒र्य॒त॒ । वचः᳚ । यस्य᳚ । तरे᳚म । तर᳚सा । श॒तम् । हिमाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेसद्यऊतयः तदानीमेवरक्षायेषांतेतादृशाः सद्योगमनावा वोयुष्मान् तद्द्रविणं धनं यामि याचामहे येनधनेन नॄनस्मत्पुत्रभृत्यादीन् अभिततनाम स्वर्णआदित्यइवरश्मीन् हेमरुतोमेमम स्वभूतमिदं इदानींक्रियमाणं वचः स्तोत्रं सु सुष्ठु हर्यत कामयध्वं यस्यस्तोत्रवचसः तरसा बलेनशतं शतसंख्याकान् हिमाः हेमन्तान् तरेम शतसंवत्सरंजीवेमेत्यर्थः ॥ १५ ॥
प्रयज्यवइतिदशर्चंएकादशंसूक्तं श्यावाश्वस्यार्षंमारुतं दशमीत्रिष्टुप् शिष्टाजगत्यः प्रयज्यवोदशान्त्यात्रिष्टुबित्यनुक्रमणिका । आभि- प्ल्विकेषष्ठेहनिआग्निमारुतइदंसूक्तंमारुतनिविद्धानीयं सूत्रितंच-प्रयज्यवइमंस्तोममित्याग्निमारुतमिति ।