प्र॒वत्व᳚ती॒यं पृ᳚थि॒वी म॒रुद्भ्य᳚ः प्र॒वत्व᳚ती॒ द्यौर्भ᳚वति प्र॒यद्भ्य᳚ः ।
प्र॒वत्व᳚तीः प॒थ्या᳚ अ॒न्तरि᳚क्ष्याः प्र॒वत्व᳚न्त॒ः पर्व᳚ता जी॒रदा᳚नवः ॥
प्र॒वत्व᳚तीः प॒थ्या᳚ अ॒न्तरि᳚क्ष्याः प्र॒वत्व᳚न्त॒ः पर्व᳚ता जी॒रदा᳚नवः ॥
पदपाठः (Word-by-word)
प्र॒वत्व᳚ती । इ॒यम् । पृ॒थि॒वी । म॒रुत्॑भ्यः᳚ । प्र॒वत्व᳚ती । द्यौः । भ॒व॒ति॒ । प्र॒यत्॑भ्यः᳚ ।
प्र॒वत्व᳚तीः । प॒थ्याः᳚ । अ॒न्तरि᳚क्ष्याः । प्र॒वत्व᳚न्तः । पर्व᳚ताः । जी॒र॑दा᳚नवः ॥
प्र॒वत्व᳚तीः । प॒थ्याः᳚ । अ॒न्तरि᳚क्ष्याः । प्र॒वत्व᳚न्तः । पर्व᳚ताः । जी॒र॑दा᳚नवः ॥
सायणभाष्यम् (Sayana Commentary)
इयंपृथिवी मरुद्भ्योमरुतामर्थाय प्रवत्वती प्रवन्तः प्रकर्षवन्तोविस्तीर्णाः प्रदेशायस्यां साप्रवत्वती तादृशी भवति कृत्स्नापिभूमिर्मरु- त्पराभवतीत्यर्थः तां सर्वामपिव्याप्नुवन्तिइतियावत् तथा द्यौरपि प्रयद्भ्यः प्रकर्षेणगच्छद्भ्यः तभ्यः प्रवत्वतीभवति सापिमरुतांसंचाराय तथा अन्तरिक्ष्याः अन्तरिक्षेभवाः पथ्याः सुगतयोपि प्रवत्वतीः प्रवत्वत्योमरुद्भ्योभवन्ति पर्वताः अद्रयोमेघावा प्रवत्वन्तोभवन्ति जीर- दानवः क्षिप्रदानामरुद्भ्यः ॥ ९ ॥