श्रवणम्

5.42.1
प्र शंत᳚मा॒ वरु᳚णं॒ दीधि᳚ती॒ गीर्मि॒त्रं भग॒मदि᳚तिं नू॒नम᳚श्याः ।
पृष᳚द्योनि॒ः पञ्च᳚होता शृणो॒त्वतू᳚र्तपन्था॒ असु᳚रो मयो॒भुः ॥
▶ पदपाठः (Word-by-word)
प्र । शम्॑त᳚मा । वरु᳚णम् । दीधि᳚ती । गीः । मि॒त्रम् । भग᳚म् । अदि᳚तिम् । नू॒नम् । अ॒श्याः॒ ।
पृष᳚त्॑योनिः । पञ्च᳚॑होता । शृ॒णो॒तु॒ । अतू᳚र्त॑पन्थाः । असु᳚रः । म॒यः॒॑भुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

शंतमा अत्यन्तसुखकरी गीः स्तुतिरूपावाक् वरुणंमित्रंभगंअदितिंच दिधिती दीधित्याकर्मणा हविः प्रक्षेपणात्मकेनसह नूनमवितथं प्राश्याः प्राप्नोतु किंच पृषद्योनिः पृषद्वर्णान्तरिक्षस्थः पंचहोता पंचविधस्यप्राणापानादिहोमस्यसाधकोवायुः यद्वा पंचहोतेतिवायोर्नाम वायुःपंचहोतासप्राणइतिहिश्रुतेः । सचातूर्तपन्थाः अहिंसितगतिः असुरःप्राणस्यदाता मयोभुःसुखस्यास्पदभूतः एवमुक्तलक्षणोवायुः श्रृणोतुस्तोत्रमिति ॥ १ ॥