दमू᳚नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्ण॒ः पत्नी᳚र्न॒द्यो᳚ विभ्वत॒ष्टाः ।
सर᳚स्वती बृहद्दि॒वोत रा॒का द᳚श॒स्यन्ती᳚र्वरिवस्यन्तु शु॒भ्राः ॥
सर᳚स्वती बृहद्दि॒वोत रा॒का द᳚श॒स्यन्ती᳚र्वरिवस्यन्तु शु॒भ्राः ॥
पदपाठः (Word-by-word)
दमू᳚नसः । अ॒पसः᳚ । ये । सु॒॑हस्ताः᳚ । वृष्णः᳚ । पत्नीः᳚ । न॒द्यः᳚ । वि॒भ्व॒॑त॒ष्टाः ।
सर᳚स्वती । बृ॒ह॒त्॑दि॒वा । उ॒त । रा॒का । द॒श॒स्यन्तीः᳚ । व॒रि॒व॒स्य॒न्तु॒ । शु॒भ्राः ॥
सर᳚स्वती । बृ॒ह॒त्॑दि॒वा । उ॒त । रा॒का । द॒श॒स्यन्तीः᳚ । व॒रि॒व॒स्य॒न्तु॒ । शु॒भ्राः ॥
सायणभाष्यम् (Sayana Commentary)
अत्रलिंगोक्तदेवताः दमूनसोदानमनसोदान्तमनसोवा अपसः चमसाश्वरथगवादिशोभनकर्मंवन्तः मत्वर्थोलुप्यते अतएव सुहस्ताः कुशलहस्तायेसन्ति तेऋभवः वृष्णः वर्षकस्येन्द्रस्य पत्नीः पत्न्यः पालयित्र्यः नद्योनदनशॊलागंगाद्याः विश्वतष्टाः ऋभूणांमध्यमेनकृताः सरस्वती एतन्नामिकानदीवाग्देवीवा बृहद्दिवा प्रभूतदीप्तिः उत अपिच राकादेवीच दशस्यन्तीर्दशस्यंत्यः कामान्प्रयच्छन्त्यः शुभ्रादीप्तास्ताश्चवरिवस्यन्तु अस्मभ्यंधनमिच्छन्तु ॥ १२ ॥