प्रैष स्तोमः᳚ पृथि॒वीम॒न्तरि᳚क्षं॒ वन॒स्पती{4}॒रोष᳚धी रा॒ये अ᳚श्याः ।
दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ᳚थि॒वी दु᳚र्म॒तौ धा᳚त् ॥
दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ᳚थि॒वी दु᳚र्म॒तौ धा᳚त् ॥
पदपाठः (Word-by-word)
प्र । ए॒षः । स्तोमः᳚ । पृ॒थि॒वीम् । अ॒न्तरि᳚क्षम् । वन॒स्पती᳚न् । ओष᳚धीः । रा॒ये । अ॒श्याः॒ ।
दे॒वः॑दे᳚वः । सु॒॑हवः᳚ । भू॒तु॒ । मह्य᳚म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒॑म॒तौ । धा॒त् ॥
दे॒वः॑दे᳚वः । सु॒॑हवः᳚ । भू॒तु॒ । मह्य᳚म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒॑म॒तौ । धा॒त् ॥
सायणभाष्यम् (Sayana Commentary)
एषःस्तोमःस्तुतिः पृथिव्यादिदेवताः प्राश्याःप्राप्नोतु किमर्थं राये धनार्थं देवोदेवः सर्वोपिदेवः मह्यं मदर्थं सुहवोभूतु स्वाह्वानोभवतु नोस्मान् दुर्मतौ माता सर्वस्यनिर्मात्री यद्वात्रेर्भौमत्वाद्विशेषेणमाता तादृशीपृथिवी माधात् मास्थापयतु ॥ १६ ॥