श्रवणम्

5.42.9
वि॒स॒र्माणं᳚ कृणुहि वि॒त्तमे᳚षां॒ ये भु॒ञ्जते॒ अपृ᳚णन्तो न उ॒क्थैः ।
अप᳚व्रतान्प्रस॒वे वा᳚वृधा॒नान्ब्र᳚ह्म॒द्विष॒ः सूर्या᳚द्यावयस्व ॥
▶ पदपाठः (Word-by-word)
वि॒॑स॒र्माण᳚म् । कृ॒णु॒हि॒ । वि॒त्तम् । ए॒षा॒म् । ये । भु॒ञ्जते᳚ । अपृ᳚णन्तः । नः॒ । उ॒क्थैः ।
अप᳚॑व्रतान् । प्र॒॑स॒वे । व॒वृ॒धा॒नान् । ब्र॒ह्म॒॑द्विषः᳚ । सूर्या᳚त् । य॒व॒य॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां वक्ष्यमाणानां वित्तं धनं विसर्माणं विसरणशीलं कृणुहिकुरु हेब्रह्मणस्पते एषामित्युक्तंकेषामित्याह येभुंजते अपृणन्तोअप्रयच्छन्तः केभ्यःउक्थैः स्तुतिप्रतिपादकैः शस्त्रैर्विशिष्टेभ्योनोस्मभ्यं तानपव्रतान् अपगतकर्मणः प्रसवे उत्पत्तिमतिमनुष्यलोके ववृधानान् वर्धमानान् ब्रह्मद्विषोब्राह्मणद्वेष्टृन् मन्त्रद्वेष्टृन् वासूर्यात् यवयस्व पृथक्कुरु अन्धकारेस्थापयेत्यर्थः ॥ ९ ॥