श्रवणम्

5.42.3 समानपद
उदी᳚रय क॒वित᳚मं कवी॒नामु॒नत्तै᳚नम॒भि मध्वा᳚ घृ॒तेन᳚ ।
स नो॒ वसू᳚नि॒ प्रय᳚ता हि॒तानि᳚ च॒न्द्राणि᳚ दे॒वः स᳚वि॒ता सु᳚वाति ॥
▶ पदपाठः (Word-by-word)
उत् । ई॒र॒य॒ । क॒वि॑त᳚मम् । क॒वी॒नाम् । उ॒नत्त᳚ । ए॒न॒म् । अ॒भि । मध्वा᳚ । घृ॒तेन᳚ ।
सः । नः॒ । वसू᳚नि । प्र॑य᳚ता । हि॒तानि᳚ । च॒न्द्राणि᳚ । दे॒वः । स॒वि॒ता । सु॒वा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया अग्निः सविताचस्तूयते हेऋत्विजः कवीनां कवितमं अतिशयेनक्रान्तदर्शिनं अमुं पुरोव्र्तिनंअग्निंसवितारंवा उदीरय ऊर्ध्वंप्रापयत हर्षयतेत्यर्थः एनंदेवं मध्वा मधुरेणसोमरसेनघृतेनच अभ्युनत्त अभिषिंचत तर्पयतेत्यर्थः ससवितादेवोनोस्मभ्यं वसूनि निवासयोग्या- नि गवादिधनानि प्रयता प्रयतानिहितानि चन्द्राणिआह्लादकानि हिरण्यानि सुवाति प्रयच्छत्वित्यर्थः ॥ ३ ॥