श्रवणम्

5.42.10 समानपद
य ओह᳚ते र॒क्षसो᳚ दे॒ववी᳚तावच॒क्रेभि॒स्तं म᳚रुतो॒ नि या᳚त ।
यो व॒ः शमीं᳚ शशमा॒नस्य॒ निन्दा᳚त्तु॒च्छ्यान्कामा᳚न्करते सिष्विदा॒नः ॥
▶ पदपाठः (Word-by-word)
यः । ओह᳚ते । र॒क्षसः᳚ । दे॒व॑वी᳚तौ । अ॒च॒क्रेभिः᳚ । तम् । म॒रु॒तः॒ । नि । या॒त॒ ।
यः । वः॒ । समी᳚म् । श॒श॒मा॒नस्य᳚ । निन्दा᳚त् । तु॒च्छ्यान् । कामा᳚न् । क॒र॒ते॒ । सि॒स्वि॒दा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानोरक्षसोबलिनोराक्षसात् ओहते प्रापयति देववीतौ देवानांवीतिः प्राप्तिर्भक्षणं वायत्रसतथोक्तः तस्मिन्यज्ञे अन्यथानुष्ठानादिनाआसुरंकरोतीत्यर्थः तंयजमानमचक्रेभिः अचक्रैः रथैः हेमरुतोनियात नितरांप्रपयतअंधकारं यद्वा अचक्रेभिरितिपूर्वत्रान्वयः चक्रशब्देनांगान्युच्यन्ते पुनःपुनः अंगरहितैः केवलैरेवप्रधानैरोहतेप्रापयति सांगंहिकर्मदेवानभ्येति यश्चवोयुष्माकं शमींकर्मस्तुतिलक्षणं शशमानस्य शंसमानस्यममसंबन्धि निन्दात् निन्देत् वैदिकंज्योतिष्टोमादिरूपंकर्म निन्दति स्वयंच तुच्छयान् नश्वरान् कामान् कृष्यादिजनितभोगान् करते कुरुते सिष्विदानः स्विद्यन्नात्मानंक्लेशयन् अथवा युष्मासु कमनीयान् भोगान् तुच्छयान् करोति ॥ १० ॥