श्रवणम्

5.42.4
समि᳚न्द्र णो॒ मन᳚सा नेषि॒ गोभि॒ः सं सू॒रिभि᳚र्हरिव॒ः सं स्व॒स्ति ।
सं ब्रह्म᳚णा दे॒वहि᳚तं॒ यदस्ति॒ सं दे॒वानां᳚ सुम॒त्या य॒ज्ञिया᳚नाम् ॥
▶ पदपाठः (Word-by-word)
सम् । इ॒न्द्र॒ । नः॒ । मन᳚सा । ने॒षि॒ । गोभिः᳚ । सम् । सू॒रि॑भिः᳚ । ह॒रि॒॑वः॒ । सम् । स्व॒स्ति ।
सम् । ब्रह्म᳚णा । दे॒व॑हि᳚तम् । यत् । अस्ति᳚ । सम् । दे॒वाना᳚म् । सु॒॑म॒त्या । य॒ज्ञिया᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र नोस्मान् मनसा प्रकृष्टेनचेतसा गोभिःसह संनेषिनयसि अस्मभ्यंगाःदापयसीत्यर्थः एवंसर्वत्र हेहरिवः हरिभ्यांतद्वन्निन्द्र सूरिभिर्मेधाविभिः पुत्रैरृत्विग्भिर्वा सन्नेषि तथा स्वस्तिभिःक्षेमैः संनेषि ब्रह्मणा प्रभूतेनान्नेनसंनेषि यदन्नंदेवहितमस्ति तेन किंच यज्ञियानां यज्ञार्हाणांदेवानां सुमत्या अनुग्रहबुद्भ्यासंनेषि ॥ ४ ॥