श्रवणम्

5.42.18
सम॒श्विनो॒रव᳚सा॒ नूत᳚नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम ।
आ नो᳚ र॒यिं व᳚हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ᳚गानि ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒श्विनोः᳚ । अव᳚सा । नूत᳚नेन । म॒यः॒॑भुवा᳚ । सु॒॑प्रनी᳚ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा᳚नि । अ॒मृ॒ता॒ । सौभ᳚गानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयंअश्विनोः नूतनेनपूर्वमन्यैरननुभूतेन मयोभुवा सुखस्यभावयित्रा सुप्रणीती शोबनप्रणयनवता अवसा रक्षणेन संगमेम संगच्छेमहि हेअमृता अमरणावश्विनौ नोस्मभ्यंरयिंधनंआवहतंप्रापयतं ओतवीरान् सुवीर्यवतः पुत्रानप्यावहतं विश्वानि सौभगान्यप्यावहतम् ॥ १८ ॥

आधेनवइतिसप्तदशर्चंएकादशंसूक्तं अत्रेरार्षंत्रैष्टुभंवैश्वदेवं अत्रानुक्रमणिका-आधेनवस्त्र्यूनैतयोरुपांत्यैकपदेति । विनियोगोलैंगिकः अपोनप्त्नीयएकधनासु हविर्धानप्रतिनीयमानासुआद्यानुप्रवचनीया सूत्रितंच-आधेनवः पयसातूर्ण्यर्थाः स्मन्यायन्त्युपयन्त्यन्याइति ।