प्र सू म॒हे सु᳚शर॒णाय᳚ मे॒धां गिरं᳚ भरे॒ नव्य᳚सीं॒ जाय᳚मानाम् ।
य आ᳚ह॒ना दु᳚हि॒तुर्व॒क्षणा᳚सु रू॒पा मि᳚ना॒नो अकृ᳚णोदि॒दं नः᳚ ॥
य आ᳚ह॒ना दु᳚हि॒तुर्व॒क्षणा᳚सु रू॒पा मि᳚ना॒नो अकृ᳚णोदि॒दं नः᳚ ॥
पदपाठः (Word-by-word)
प्र । सु । म॒हे । सु॒श॒र॒णाय᳚ । मे॒धाम् । गिर᳚म् । भ॒रे॒ । नव्य᳚सीम् । जाय᳚मानाम् ।
यः । आ॒ह॒नाः । दु॒हि॒तुः । व॒क्षणा᳚सु । रू॒पा । मि॒ना॒नः । अकृ᳚णोत् । इ॒दम् । नः॒ ॥
यः । आ॒ह॒नाः । दु॒हि॒तुः । व॒क्षणा᳚सु । रू॒पा । मि॒ना॒नः । अकृ᳚णोत् । इ॒दम् । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
सु सुष्ठु प्रभरे प्रकर्षेणसंपादयामि महे महते सुशरणाय शोभनरक्षकायेन्द्राय पर्जन्यायवासुसुखायवा किं मेधां मतौधीयमानां गिरं स्तुतिं कीदृशीं नव्यसीं नवतरांअतिशयेनस्तुत्यांवाजायमानां इदानींउत्पद्यमानांनूतनामित्यर्थः यइन्द्रः पर्जन्योवा आहना आहन्तासेक्ता दुहितुर्दुहितृस्थानीयायाः पृथिव्याः हिताय वक्षणासु नदीषु रूपा रूपाणि मिनानः कुर्वाणइदमुदकंनोस्माभ्यंअकृणोत् करोतु ॥ १३ ॥