प्र सु᳚ष्टु॒तिः स्त॒नय᳚न्तं रु॒वन्त᳚मि॒ळस्पतिं᳚ जरितर्नू॒नम᳚श्याः ।
यो अ᳚ब्दि॒मा{4} उ᳚दनि॒मा{4} इय᳚र्ति॒ प्र वि॒द्युता॒ रोद᳚सी उ॒क्षमा᳚णः ॥
यो अ᳚ब्दि॒मा{4} उ᳚दनि॒मा{4} इय᳚र्ति॒ प्र वि॒द्युता॒ रोद᳚सी उ॒क्षमा᳚णः ॥
पदपाठः (Word-by-word)
प्र । सु॒॑स्तु॒तिः । स्त॒नय᳚न्तम् । रु॒वन्त᳚म् । इ॒ळः । पति᳚म् । ज॒रि॒तः॒ । नू॒नम् । अ॒श्याः॒ ।
यः । अ॒ब्दि॒॑मान् । उ॒द॒नि॒॑मान् । इय᳚र्ति । प्र । वि॒॑द्युता᳚ । रोद᳚सी॒ इति᳚ । उ॒क्षमा᳚णः ॥
यः । अ॒ब्दि॒॑मान् । उ॒द॒नि॒॑मान् । इय᳚र्ति । प्र । वि॒॑द्युता᳚ । रोद᳚सी॒ इति᳚ । उ॒क्षमा᳚णः ॥
सायणभाष्यम् (Sayana Commentary)
अत्रेपर्जन्यः स्तूयते सुष्टुतिः शोभनास्तुतिः स्तनयन्तं गर्जन्तं रुवन्तं वर्षणजनितंशब्दंकुर्वाणं इळः अन्नस्योदकस्यवापतिंस्वामिनं हेजरितः स्तोतः त्वदीयास्तुतिः नूनंप्राश्याः प्रकर्षेणव्याप्नोतु यश्चपर्जन्यः अब्दिमान् अब्दिः अपांदानवान् मेघःतद्वान् उदनिमान् उदकवान् विद्युता तडिता रोदसी द्यावापृथिव्यावुक्षमाणः सिंचन् प्रेयर्तिगच्छति ॥ १४ ॥