दे॒वो भगः᳚ सवि॒ता रा॒यो अंश॒ इन्द्रो᳚ वृ॒त्रस्य᳚ सं॒जितो॒ धना᳚नाम् ।
ऋ॒भु॒क्षा वाज᳚ उ॒त वा॒ पुरं᳚धि॒रव᳚न्तु नो अ॒मृता᳚सस्तु॒रासः᳚ ॥
ऋ॒भु॒क्षा वाज᳚ उ॒त वा॒ पुरं᳚धि॒रव᳚न्तु नो अ॒मृता᳚सस्तु॒रासः᳚ ॥
पदपाठः (Word-by-word)
दे॒वः । भगः᳚ । स॒वि॒ता । रा॒यः । अंशः᳚ । इन्द्रः᳚ । वृ॒त्रस्य᳚ । स॒म्॑जितः᳚ । धना᳚नाम् ।
ऋ॒भु॒क्षाः । वाजः᳚ । उ॒त । वा॒ । पुर᳚म्॑धिः । अव᳚न्तु । नः॒ । अ॒मृता᳚सः । तु॒रासः᳚ ॥
ऋ॒भु॒क्षाः । वाजः᳚ । उ॒त । वा॒ । पुर᳚म्॑धिः । अव᳚न्तु । नः॒ । अ॒मृता᳚सः । तु॒रासः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अत्रलिंगोक्तादेवताः भगोदेवःसविताच रायोधनस्यस्वामी अंशस्त्वष्टा वृत्रस्यहन्ताइन्द्रश्च एतेदेवाः धनानांसंजितः सम्यक् जेतारः ऋभुक्षाः ऋभुर्वाजश्च उतवा अपिच पुरंधिर्बहुधीः विश्वोच्यते एतेच अमृतासोअमृताअमरणधर्माणःक् भगादिदेवाः तुरासः अस्मद्यज्ञंप्रति त्वरमाणाः संतोनोस्मानवन्तुरक्षन्तु ॥ ५ ॥