श्रवणम्

5.42.2 समानपद
प्रति᳚ मे॒ स्तोम॒मदि᳚तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं᳚ सु॒शेव᳚म् ।
ब्रह्म᳚ प्रि॒यं दे॒वहि᳚तं॒ यदस्त्य॒हं मि॒त्रे वरु᳚णे॒ यन्म᳚यो॒भु ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । मे॒ । स्तोम᳚म् । अदि᳚तिः । ज॒गृ॒भ्या॒त् । सू॒नुम् । न । मा॒ता । हृद्य᳚म् । सु॒॑शेव᳚म् ।
ब्रह्म᳚ । प्रि॒यम् । दे॒व॑हि᳚तम् । यत् । अस्ति᳚ । अ॒हम् । मि॒त्रे । वरु᳚णे । यत् । म॒यः॒॑भुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मेमदीयं स्तोमंस्तोत्रं अदितिर्देवता प्रतिजगृभ्यात् प्रतिगृह्णातु सूनुंनमाता स्वतनुजंजननीव सायथाप्रतिगृह्यआलिंग्फ़्यपरितुष्यति तद्वदित्यर्थः कीदृशंतं हृद्यंहृदयंगमं सुशेवं शोभनसुखकरं एतद्वयंसाधारणं किंच ब्रह्म मंत्रजातं प्रियंप्रियकरं देवहितं देवैःप्राप्यंयदस्ति यद्ब्रह्म मयोभु सुखसाधनंतदहंमित्रेवरुणेचप्रापयामीतिशेषः यद्वा मित्रेवरुणेच अहोरात्राभिमानिदेवयोः यदुक्तलक्षणं ब्रह्म परिवृढं यज्ञादिरूपं कर्मास्तितदहंधारयामीति ॥ २ ॥ उदीरयेत्येषा एकादशिनेसावित्रेपशौवपायाज्या सूत्रितंच-उदीरयकवितमंकवीनांभगंधियंवाजयन्तः पुरंधिमितिद्वेइति ।