म॒रुत्व᳚तो॒ अप्र᳚तीतस्य जि॒ष्णोरजू᳚र्यत॒ः प्र ब्र᳚वामा कृ॒तानि᳚ ।
न ते॒ पूर्वे᳚ मघव॒न्नाप᳚रासो॒ न वी॒र्यं१॒᳚ नूत᳚न॒ः कश्च॒नाप᳚ ॥
न ते॒ पूर्वे᳚ मघव॒न्नाप᳚रासो॒ न वी॒र्यं१॒᳚ नूत᳚न॒ः कश्च॒नाप᳚ ॥
पदपाठः (Word-by-word)
म॒रुत्व᳚तः । अप्र᳚ति॑इतस्य । जि॒ष्णोः । अजू᳚र्यतः । प्र । ब्र॒वा॒म॒ । कृ॒तानि᳚ ।
न । ते॒ । पूर्वे᳚ । म॒घ॒॑व॒न् । न । अप᳚रासः । न । वी॒र्य᳚म् । नूत᳚नः । कः । च॒न । आ॒प॒ ॥
न । ते॒ । पूर्वे᳚ । म॒घ॒॑व॒न् । न । अप᳚रासः । न । वी॒र्य᳚म् । नूत᳚नः । कः । च॒न । आ॒प॒ ॥
सायणभाष्यम् (Sayana Commentary)
वयं यजमानामरुत्वतोमरुद्भिस्तद्वतइन्द्रस्य कृतानि कर्माणि प्रब्रवाम प्रख्यापयाम कीदृशस्य तस्य अप्रतीतस्य अप्रतिगतस्य युद्धे अपलायमानस्य नकेवलंतावन्मात्रं जिष्णोर्जयनशीलस्य अजूर्यतः अजीर्यमाणस्य सर्वदायूनइत्यर्थः अथप्रत्यक्षेणोच्यते हेमघवन्निन्द्र तेतव वीर्यं पराक्रमं पूर्वेपुरातनाः पुरुषाःनापुः नापरासोअपरेपिनापुः किंबहुना नूतनःकश्चनआश्चर्यभूतोयः कोपिवीर्यंनाप नप्राप्नोति ॥ ६ ॥