तवो॒तिभि॒ः सच᳚माना॒ अरि᳚ष्टा॒ बृह᳚स्पते म॒घवा᳚नः सु॒वीरा᳚ः ।
ये अ᳚श्व॒दा उ॒त वा॒ सन्ति᳚ गो॒दा ये व᳚स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः᳚ ॥
ये अ᳚श्व॒दा उ॒त वा॒ सन्ति᳚ गो॒दा ये व᳚स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः᳚ ॥
पदपाठः (Word-by-word)
तव᳚ । ऊ॒ति॑भिः᳚ । सच᳚मानाः । अरि᳚ष्टाः । बृह᳚स्पते । म॒घ॑वा᳚नः । सु॒॑वीराः᳚ ।
ये । अ॒श्व॒॑दाः । उ॒त । वा॒ । सन्ति᳚ । गो॒॑दाः । ये । व॒स्त्र॒॑दाः । सु॒॑भगाः᳚ । तेषु᳚ । रायः᳚ ॥
ये । अ॒श्व॒॑दाः । उ॒त । वा॒ । सन्ति᳚ । गो॒॑दाः । ये । व॒स्त्र॒॑दाः । सु॒॑भगाः᳚ । तेषु᳚ । रायः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेबृहस्पते तवोतिभिः रक्षाभिः सचमानाः संगच्छमानाः अरिष्टाः अहिंसिताः मघवानोधनवन्तः सुवीराः शोभनपुत्राश्चभवन्ति येत्वदनुगृहीताः अश्वदाः बहूनामश्वानांदातारःसन्ति उतवा अथवा गोदाःसन्ति येच वस्त्रदाः सुभगाः शोभनधनाः सन्ति तेषुर्वेषु रायोधनानि संभवंत्वितिशेषः ॥ ८ ॥