ए॒ष स्तोमो॒ मारु᳚तं॒ शर्धो॒ अच्छा᳚ रु॒द्रस्य᳚ सू॒नू{4}र्यु᳚व॒न्यू{4}रुद᳚श्याः ।
कामो᳚ रा॒ये ह᳚वते मा स्व॒स्त्युप᳚ स्तुहि॒ पृष᳚दश्वा{4} अ॒यासः᳚ ॥
कामो᳚ रा॒ये ह᳚वते मा स्व॒स्त्युप᳚ स्तुहि॒ पृष᳚दश्वा{4} अ॒यासः᳚ ॥
पदपाठः (Word-by-word)
ए॒षः । स्तोमः᳚ । मारु᳚तम् । शर्धः᳚ । अच्छ᳚ । रु॒द्रस्य᳚ । सू॒नून् । यु॒व॒न्यून् । उत् । अ॒श्याः॒ ।
कामः᳚ । रा॒ये । ह॒व॒ते॒ । मा॒ । स्व॒स्ति । उप᳚ । स्तु॒हि॒ । पृष᳚त्॑अश्वान् । अ॒यासः᳚ ॥
कामः᳚ । रा॒ये । ह॒व॒ते॒ । मा॒ । स्व॒स्ति । उप᳚ । स्तु॒हि॒ । पृष᳚त्॑अश्वान् । अ॒यासः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
एषमयासंपादितः स्तोमः स्तोत्रं मारुतंशर्धः मरुतांबलं अच्छ अभिमुखं अश्याः प्राप्नोतु समुदायरूपेणस्तुत्वा समुदायिरूपेणाह-रुद्रस्यसूनून् एषांरुद्रेणपुत्रत्वेनपरिकॢप्तिरसकृदुक्ता युवन्यून् यूनोमिश्रणेच्छून् वा उत् उन्नतं अत्यधिकं अश्याः व्याप्नुहि हेमनः कामः संकल्पोरायेधनार्थं मा मां स्वस्ति अविनश्वरं हवते आह्वयति प्रेरयतीत्यर्थः यस्मादेवंतस्मात् पृषदश्वान् पृषद्वर्णाशोपेतान् अयासोयज्ञगंतॄन् उप अपेत्य स्तुहि ॥ १५ ॥