तमु᳚ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व᳚स्य॒ क्षय᳚ति भेष॒जस्य᳚ ।
यक्ष्वा᳚ म॒हे सौ᳚मन॒साय᳚ रु॒द्रं नमो᳚भिर्दे॒वमसु᳚रं दुवस्य ॥
यक्ष्वा᳚ म॒हे सौ᳚मन॒साय᳚ रु॒द्रं नमो᳚भिर्दे॒वमसु᳚रं दुवस्य ॥
पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । स्तु॒हि॒ । यः । सु॒॑इ॒षुः । सु॒॑धन्वा᳚ । यः । विश्व᳚स्य । क्षय᳚ति । भे॒ष॒जस्य᳚ ।
यक्ष्व᳚ । म॒हे । सौ॒म॒न॒साय᳚ । रु॒द्रम् । नमः᳚॑भिः । दे॒वम् । असु᳚रम् । दु॒व॒स्य॒ ॥
यक्ष्व᳚ । म॒हे । सौ॒म॒न॒साय᳚ । रु॒द्रम् । नमः᳚॑भिः । दे॒वम् । असु᳚रम् । दु॒व॒स्य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेआत्मन् तमु तमेवरुद्रं स्तुहि स्तुतिंकुरु यःस्विषुः शोभनबाणः सुधन्वाच विरोधिहंतृत्वात् सुष्ठुत्वं यश्च विश्वस्यभेषजस्य सर्वस्यौषधस्यक्षयति ईश्वरोभवति शारीरस्य सांसारिकस्यवारिष्टस्यशमनायेश्वरसेवातिरिक्तस्यौषधस्याभावात् भिषक्तमत्वाच्चास्यभेषजस्वामित्वं भिषक्तमंत्वाभिषजांश्रृणोमिइत्यादिश्रुतेः । किंच तमेवरुद्रं दुःखात्तत्साधनाद्दुरिताद्वा मोचयितारंदेवं यश्व यजच महे महते सौमनसाय सुमनस्त्वाय ईश्वराराधनाच्चित्तशांतिः प्रसिद्धा किंच नयोभिर्हविर्भिर्नमस्कारैर्वा देवं द्योतमानं असुरम् प्रकृष्ठासुंबलवंतमित्यर्थः यद्वा प्राणदातारंरुद्रंदुवस्यपरिचरेति ॥ ११ ॥