श्रवणम्

8.8.19
आ नो᳚ गन्तं मयो॒भुवाश्वि᳚ना श॒म्भुवा᳚ यु॒वम् ।
यो वां᳚ विपन्यू धी॒तिभि᳚र्गी॒र्भिर्व॒त्सो अवी᳚वृधत् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । ग॒न्त॒म् । म॒यः॒॑भुवा᳚ । अश्वि᳚ना । श॒म्॑भुवा᳚ । यु॒वम् ।
यः । वा॒म् । वि॒॑प॒न्यू॒ इति᳚ । धी॒ति॑भिः᳚ । गीः॒॑भिः । व॒त्सः । अवी᳚वृधत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ मयोभुवा मयसः सुखस्य भावयितारौ शंभुवा रोगाणां शमस्य भावयितारौ युवं युवां नोस्मानग्न्तमागच्छतम् । हे विपन्यू स्तुत्यावश्विनौ योवत्सः स्तोता वां युवां धीतिभिः कर्मभिः परिचरणैः गीर्भिः स्तुतिभिश्च अवीवृधत् अवर्धयत् तानस्मानिति पूर्वत्रान्वयः ॥ १९ ॥