प्र वां॒ स्तोमा᳚ः सुवृ॒क्तयो॒ गिरो᳚ वर्धन्त्वश्विना ।
पुरु᳚त्रा॒ वृत्र᳚हन्तमा॒ ता नो᳚ भूतं पुरु॒स्पृहा᳚ ॥
पुरु᳚त्रा॒ वृत्र᳚हन्तमा॒ ता नो᳚ भूतं पुरु॒स्पृहा᳚ ॥
पदपाठः (Word-by-word)
प्र । वा॒म् । स्तोमाः᳚ । सु॒॑वृ॒क्तयः᳚ । गिरः᳚ । व॒र्ध॒न्तु॒ । अ॒श्वि॒ना॒ ।
पुरु᳚॑त्रा । वृत्र᳚हन्॑तमा । ता । नः॒ । भू॒त॒म् । पु॒रु॒॑स्पृहा᳚ ॥
पुरु᳚॑त्रा । वृत्र᳚हन्॑तमा । ता । नः॒ । भू॒त॒म् । पु॒रु॒॑स्पृहा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ स्तोमाः प्रगीतमन्त्ररूपाःस्तुतयः सुवृक्तयः सुप्रवृत्ताः सुष्ठु दोषवर्जितावा गिरः शस्त्ररूपावाचश्च वां युवां प्रवर्धन्तु प्रवर्धयन्तु । अपिच हे पुरुत्रा बहूनां त्रातारौ हे वृत्रहन्तमा वृत्राणां शत्रूणां हन्तृतमौ ईदृशौ हे अश्विनौ ता तौ युवां नोस्माकं पुरुस्पृहा पुरु बहुलं स्पृहणीयावीप्सितव्यौ भूतं भवतम् ॥ २२ ॥