आ या᳚ह्यग्ने प॒थ्या॒३॒᳚ अनु॒ स्वा म॒न्द्रो दे॒वानां᳚ स॒ख्यं जु᳚षा॒णः ।
आ सानु॒ शुष्मै᳚र्न॒दय᳚न्पृथि॒व्या जम्भे᳚भि॒र्विश्व᳚मु॒शध॒ग्वना᳚नि ॥
आ सानु॒ शुष्मै᳚र्न॒दय᳚न्पृथि॒व्या जम्भे᳚भि॒र्विश्व᳚मु॒शध॒ग्वना᳚नि ॥
पदपाठः (Word-by-word)
आ । या॒हि॒ । अ॒ग्ने॒ । प॒थ्याः᳚ । अनु᳚ । स्वाः । म॒न्द्रः । दे॒वाना᳚म् । स॒ख्यम् । जु॒षा॒णः ।
आ । सानु᳚ । शुष्मैः᳚ । न॒दय᳚न् । पृ॒थि॒व्याः । जम्भे᳚भिः । विश्व᳚म् । उ॒शध᳚क् । वना᳚नि ॥
आ । सानु᳚ । शुष्मैः᳚ । न॒दय᳚न् । पृ॒थि॒व्याः । जम्भे᳚भिः । विश्व᳚म् । उ॒शध᳚क् । वना᳚नि ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वं मन्द्रो मदयिता स्तुत्योवा देवानां सख्यं देवैः सह सख्यमित्यर्थः । जुषाणः सेवमानः सन् पृथिव्याः सानु समुछ्रितं तृणगुल्मा- दिकं शुष्मे शोषकैर्दाहकैस्तेजोभिः नदयन् शब्दायमानः दह्यमानं हि शब्दायते जंभेभिर्दंष्ट्राभिर्ज्वालाभिरित्यर्थः । विश्वं विश्वानि वनानि उशधक् कामयमानो दहन् स्वाः पथ्या अनु स्वैर्मार्गैरित्यर्थः । आ आयाहि आकारस्य पुनर्वचनमादरार्थं ॥ २ ॥