अस्त᳚भ्ना॒द्द्यामसु᳚रो वि॒श्ववे᳚दा॒ अमि᳚मीत वरि॒माणं᳚ पृथि॒व्याः ।
आसी᳚द॒द्विश्वा॒ भुव᳚नानि स॒म्राड्विश्वेत्तानि॒ वरु᳚णस्य व्र॒तानि᳚ ॥
आसी᳚द॒द्विश्वा॒ भुव᳚नानि स॒म्राड्विश्वेत्तानि॒ वरु᳚णस्य व्र॒तानि᳚ ॥
पदपाठः (Word-by-word)
अस्त᳚भ्नात् । द्याम् । असु᳚रः । वि॒श्व॑वे᳚दाः । अमि᳚मीत । व॒रि॒माण᳚म् । पृ॒थि॒व्याः ।
आ । अ॒सी॒द॒त् । विश्वा᳚ । भुव᳚नानि । स॒म्॑राट् । विश्वा᳚ । इत् । तानि᳚ । वरु᳚णस्य । व्र॒तानि᳚ ॥
आ । अ॒सी॒द॒त् । विश्वा᳚ । भुव᳚नानि । स॒म्॑राट् । विश्वा᳚ । इत् । तानि᳚ । वरु᳚णस्य । व्र॒तानि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
विश्ववेदा विश्वधनोसुरोबलवान् वरुणोद्यामस्तभ्रात् तथा पृथिव्याः च वरिमाणं परिमाणममिमीत चक्रे । एवं निर्मितानि विश्वा सर्वाणि भुवनानि सम्राड्भूत्वा सीदच्चाध्यतिष्ठच्च । वरुणस्य तान्येतानि व्रतानि कर्माणि विश्वेत् विश्वान्येव अतोवर्णयितुमशक्यानीत्यर्थः ॥ १ ॥