श्रवणम्

8.42.4
आ वां॒ ग्रावा᳚णो अश्विना धी॒भिर्विप्रा᳚ अचुच्यवुः ।
नास᳚त्या॒ सोम᳚पीतये॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । ग्रावा᳚णः । अ॒श्वि॒ना॒ । धी॒भिः । विप्राः᳚ । अ॒चु॒च्य॒वुः॒ ।
नास᳚त्या । सोम᳚॑पीतये । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या सत्यौ सत्यप्रणेतारौवा । तथाचयास्कः-सत्यावेवनासत्यावित्यौर्णवाभःसत्यस्य प्रणेताराविति । अश्विनाश्विनौ वां युवां सोमपीतये सोमस्य पानाय वेप्राः प्राज्ञा ऋत्विजोग्रावाणः सोमाभिषवपाषाणाश्च धीभिः कर्मभिः स्वस्वव्यापारैराचुच्यवुरभिगच्छन्ति । सिद्धमन्यत् ॥ ४ ॥