श्रवणम्

8.42.2
ए॒वा व᳚न्दस्व॒ वरु᳚णं बृ॒हन्तं᳚ नम॒स्या धीर᳚म॒मृत᳚स्य गो॒पाम् ।
स न॒ः शर्म᳚ त्रि॒वरू᳚थं॒ वि यं᳚सत्पा॒तं नो᳚ द्यावापृथिवी उ॒पस्थे᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । व॒न्द॒स्व॒ । वरु᳚णम् । बृ॒हन्त᳚म् । न॒म॒स्य । धीर᳚म् । अ॒मृत᳚स्य । गो॒पाम् ।
सः । नः॒ । शर्म᳚ । त्रि॒॑वरू᳚थम् । वि । यं॒स॒त् । पा॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । उ॒प॑स्थे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः बृहन्तं महान्तं वरुणमेवैवं वन्दस्व स्तुहि अमृतस्य गोपां गोपायितारं धीरं प्राज्ञं वरुणं नमस्य नमस्कुरुच । सवरुणो नोस्मभ्यं त्रिवरूथं त्रिस्थानं शर्म गृहं वियंसत् प्रयच्छतु उपस्थे उपस्थाने वर्तमानान् नोस्मान् द्यावापृथिवी द्यावापृथिव्यौ पातं रक्षतम् ॥ २ ॥