इ॒मां धियं॒ शिक्ष᳚माणस्य देव॒ क्रतुं॒ दक्षं᳚ वरुण॒ सं शि᳚शाधि ।
ययाति॒ विश्वा᳚ दुरि॒ता तरे᳚म सु॒तर्मा᳚ण॒मधि॒ नावं᳚ रुहेम ॥
ययाति॒ विश्वा᳚ दुरि॒ता तरे᳚म सु॒तर्मा᳚ण॒मधि॒ नावं᳚ रुहेम ॥
पदपाठः (Word-by-word)
इ॒माम् । धिय᳚म् । शिक्ष᳚माणस्य । दे॒व॒ । क्रतु᳚म् । दक्ष᳚म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ ।
यया᳚ । अति᳚ । विश्वा᳚ । दुः॒॑इ॒ता । तरे᳚म । सु॒॑तर्मा᳚णम् । अधि᳚ । नाव᳚म् । रु॒हे॒म॒ ॥
यया᳚ । अति᳚ । विश्वा᳚ । दुः॒॑इ॒ता । तरे᳚म । सु॒॑तर्मा᳚णम् । अधि᳚ । नाव᳚म् । रु॒हे॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे देव द्योतमान वरुण इमां धियमिदंकर्म शिक्षमाणस्यानुतिष्ठतोमम क्रतुं प्रज्ञानं दक्षं बलंच संशिशाधि तीक्ष्णीकुरु यया नावा यज्ञरूपया विश्वा स- र्वाणि दुरिता दुरितान्यतितरेम तां सुतर्माणं सुष्ठुतारयित्रीं यज्ञरूपां नावमधिरुहेम वयमारुहेम दुःखसागरतरणे हेतुत्वाद्यज्ञोनौरिति अत्रव्यपदि- श्यते ॥ ३ ॥