श्रवणम्

8.42.5
यथा᳚ वा॒मत्रि᳚रश्विना गी॒र्भिर्विप्रो॒ अजो᳚हवीत् ।
नास᳚त्या॒ सोम᳚पीतये॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । वा॒म् । अत्रिः᳚ । अ॒श्वि॒ना॒ । गीः॒॑भिः । विप्रः᳚ । अजो᳚हवीत् ।
नास᳚त्या । सोम᳚॑पीतये । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावश्विनौ वां युवां विप्रः प्राज्ञोत्रिर्यथा गीर्भिः स्तुतिभिः सोमपीतये अजोहवीत् तथाहमपि जोहवीमि ॥ ५ ॥