श्रवणम्

7.53.1
प्र द्यावा᳚ य॒ज्ञैः पृ᳚थि॒वी नमो᳚भिः स॒बाध᳚ ईळे बृह॒ती यज᳚त्रे ।
ते चि॒द्धि पूर्वे᳚ क॒वयो᳚ गृ॒णन्त᳚ः पु॒रो म॒ही द᳚धि॒रे दे॒वपु᳚त्रे ॥
▶ पदपाठः (Word-by-word)
प्र । द्यावा᳚ । य॒ज्ञैः । पृ॒थि॒वी इति᳚ । नमः᳚॑भिः । स॒॑बाधः᳚ । ई॒ळे॒ । बृ॒ह॒ती इति᳚ । यज᳚त्रे॒ इति᳚ ।
ते इति᳚ । चि॒त् । हि । पूर्वे᳚ । क॒वयः᳚ । गृ॒णन्तः᳚ । पु॒रः । म॒ही इति᳚ । द॒धि॒रे । दे॒वपु᳚त्रे॒ इति᳚ दे॒व॑पु᳚त्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजत्रे यजनीये बृहती बृहत्यौ महत्यौ द्यावापृथिवी द्यावापृथिव्यौ यज्ञैर्यागैः नमोभिः स्तोत्रैश्च अहं स्तोता सवाधोवाधासहितः ऋत्वि- जां संबाधयुक्तइत्यर्थः प्र ईळे प्रकर्षेण स्तौमि मही महत्यौ देवपुत्रे देवाः पुत्राययोस्ते ते तव चिद्धि तादृश्यौ खल्वपि द्यावापृथिव्यौ पूर्वे पुरातनाः कवयः गृणन्तः स्तुवन्तः पुरोदधिरे पुरस्तात् स्थापयामासुः ॥ १ ॥ आंग्रायणे द्यावापृथिव्यैककपालस्य प्रपूर्वजइतियाज्या सूत्रितं च-महीद्यौःपृथिवीचनः प्रपूर्वजेपितरानव्यसीभिरिति ।