उ॒तो हि वां᳚ रत्न॒धेया᳚नि॒ सन्ति᳚ पु॒रूणि᳚ द्यावापृथिवी सु॒दासे᳚ ।
अ॒स्मे ध᳚त्तं॒ यदस॒दस्कृ᳚धोयु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
अ॒स्मे ध᳚त्तं॒ यदस॒दस्कृ᳚धोयु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
उ॒तो इति᳚ । हि । वा॒म् । र॒त्न॒॑धेया᳚नि । सन्ति᳚ । पु॒रूणि᳚ । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । सु॒॑दासे᳚ ।
अ॒स्मे इति᳚ । ध॒त्त॒म् । यत् । अस᳚त् । अस्कृ᳚धोयु । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
अ॒स्मे इति᳚ । ध॒त्त॒म् । यत् । अस᳚त् । अस्कृ᳚धोयु । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
उतोहि अपिच खलु हे द्यावापृथिवी द्यावापृथिव्यौ वां युवयोः सुदासे शोभनहविर्दानाय यजमानाय देयानि पुरुणि बहूनि रत्नधेयानि रमणीयानि धनानि सन्ति भवन्ति तेषां मध्ये यद्धनं अस्कृधोयु कृधुकोह्रस्वः अह्रस्वमनल्पं असत् भवेत् तद्धनमस्मै अस्मभ्यं धत्तं प्रयच्छत । हे द्यावापृथिव्यौ यूयं युवां नोस्मान् सर्वदा कल्याणैः पात पालयतं ॥ ३ ॥
वास्तोष्पतेइति तृचात्मकमेकविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वास्तोष्पत्यं तथाचानुक्रम्यते-वास्तोष्पतेवास्तोष्पत्यमिति । स्मार्ते- गृहनिर्माणे वास्तोष्पतइति चतसृभिः प्रत्यृचं जुहुयात् सूत्रितं च-वास्तोष्पतेप्रतिजानीह्यस्मानिति चतसृभिः प्रत्यृचं हुत्वेति ।