प्र पू᳚र्व॒जे पि॒तरा॒ नव्य᳚सीभिर्गी॒र्भिः कृ᳚णुध्वं॒ सद᳚ने ऋ॒तस्य᳚ ।
आ नो᳚ द्यावापृथिवी॒ दैव्ये᳚न॒ जने᳚न यातं॒ महि᳚ वां॒ वरू᳚थम् ॥
आ नो᳚ द्यावापृथिवी॒ दैव्ये᳚न॒ जने᳚न यातं॒ महि᳚ वां॒ वरू᳚थम् ॥
पदपाठः (Word-by-word)
प्र । पू॒र्व॒जे इति᳚ पू॒र्व॒॑जे । पि॒तरा᳚ । नव्य᳚सीभिः । गीः॒॑भिः । कृ॒णु॒ध्व॒म् । सद᳚ने॒ इति᳚ । ऋ॒तस्य᳚ ।
आ । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । दैव्ये᳚न । जने᳚न । या॒त॒म् । महि᳚ । वा॒म् । वरू᳚थम् ॥
आ । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । दैव्ये᳚न । जने᳚न । या॒त॒म् । महि᳚ । वा॒म् । वरू᳚थम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अस्मदीयाः स्तोतारोयूयं नव्यसीभिर्नवतराभिः गीर्भिः स्तुतिरूपाभिर्वाग्भिः ऋतस्य यज्ञस्य सदने स्थानभूते पूर्वजे पूर्वं प्रजाते पितरा पितरौ विश्वस्य मातापितृभूते द्यावापृथिव्यौ प्रकृणुध्वं पुरस्कुरुत । अथ प्रत्यक्षस्तुतिः हे द्यावापृथिवी द्यावापृथिव्यौ युवां दैव्येन देवसं- बन्धिना जनेन सह नोस्मानभि आयातं आगच्छतं किमर्थमायातमिति उच्यते वां युवयोः वरूथं अस्माभिर्वरणीयं महि महत् यद्धन- मस्तीतिशेषः तद्धनमस्मभ्यं दीयतामित्यर्थः ॥ २ ॥