वास्तो᳚ष्पते॒ प्रति᳚ जानीह्य॒स्मान्त्स्वा᳚वे॒शो अ᳚नमी॒वो भ᳚वा नः ।
यत्त्वेम᳚हे॒ प्रति॒ तन्नो᳚ जुषस्व॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु᳚ष्पदे ॥
यत्त्वेम᳚हे॒ प्रति॒ तन्नो᳚ जुषस्व॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु᳚ष्पदे ॥
पदपाठः (Word-by-word)
वास्तोः᳚ । प॒ते॒ । प्रति᳚ । जा॒नी॒हि॒ । अ॒स्मान् । सु॒॑आ॒वे॒शः । अ॒न॒मी॒वः । भ॒व॒ । नः॒ ।
यत् । त्वा॒ । ईम᳚हे । प्रति᳚ । तत् । नः॒ । जु॒ष॒स्व॒ । शम् । नः॒ । भ॒व॒ । द्वि॒॑पदे᳚ । शम् । चतुः᳚॑पदे ॥
यत् । त्वा॒ । ईम᳚हे । प्रति᳚ । तत् । नः॒ । जु॒ष॒स्व॒ । शम् । नः॒ । भ॒व॒ । द्वि॒॑पदे᳚ । शम् । चतुः᳚॑पदे ॥
सायणभाष्यम् (Sayana Commentary)
हे वास्तोष्पते गृहस्यपालयितर्देव त्वं अस्मान् त्वदीयान् स्तोतॄनिति प्रतिजानीहि प्रबुध्यस्व तदनन्तरं नोस्माकं स्वावेशः शोभननिवेशः अनमीवः अरोगकृच्च भव किंच वयं त्वा त्वां यद्धनं ईमहे याचामहे त्वमपि तद्धनं नोस्मभ्यं प्रतिजुषस्व प्रयच्छ अपिच नोस्माकं द्विपदे पुत्रपौत्रादिजनाय शं सुखकरोभव चतुष्पदे अस्मदीयाय गवाश्वादिवर्गायच शं सुखकरोभव ॥ १ ॥