श्रवणम्

7.54.2 समानपद
वास्तो᳚ष्पते प्र॒तर᳚णो न एधि गय॒स्फानो॒ गोभि॒रश्वे᳚भिरिन्दो ।
अ॒जरा᳚सस्ते स॒ख्ये स्या᳚म पि॒तेव᳚ पु॒त्रान्प्रति᳚ नो जुषस्व ॥
▶ पदपाठः (Word-by-word)
वास्तोः᳚ । प॒ते॒ । प्र॒॑तर᳚णः । नः॒ । ए॒धि॒ । ग॒य॒॑स्फानः᳚ । गोभिः᳚ । अश्वे᳚भिः । इ॒न्दो॒ इति᳚ ।
अ॒जरा᳚सः । ते॒ । स॒ख्ये । स्या॒म॒ । पि॒ता॑इ᳚व । पु॒त्रान् । प्रति᳚ । नः॒ । जु॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वास्तोष्पते गृहस्यपालयितर्देव त्वं नोस्माकं प्रतरणः प्रवधर्कः गयस्फानः गयस्यास्मदीयस्य धनस्य स्फाययिता प्रवर्धकः एधि भव । हे इन्दो सोमवदाह्लादक ते त्वयासह सख्ये सति वयं गोभिः पशुभिः अश्वेभिरश्वैश्च सहिता अजरासोजरारहिताः स्याम भवेम विनाशरहिताइत्यर्थः । पितेव पुत्रान् यथा पिता पुत्रान् रक्षकत्वेन सेवते तथा त्वमपि नोस्मान् प्रति जुषस्व सेवस्व ॥ २ ॥