पा॒हि क्षेम᳚ उ॒त योगे॒ वरं᳚ नो यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
पा॒हि । क्षेमे᳚ । उ॒त । योगे᳚ । वर᳚म् । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे वास्तोष्पते देव शग्मया सुखकर्या रण्वया रमणीयया गातुमत्या धनवत्या ये त्वया देयया संसदा स्थानेन सक्षीमहि वयं संगच्छे- महि । त्वमपि क्षेमे प्राप्तस्य रक्षणे उतापिच योगे अप्राप्तस्यप्रापणे वरं वरणीयं नोस्मदीयं धनं पाहि रक्ष । हे वास्तोष्पते यूयं त्वं नोस्मान् सर्वदा कल्याणैः पात पाहि ॥ ३ ॥
अमीवहेत्यष्टर्चं द्वाविंशं सूक्तं आद्यागायत्री पंचम्याद्याश्चस्रोनुष्टुभः द्वितीयाद्यास्तस्रउपरिष्टाद्बृहत्यः त्र्यष्टकाश्चतुर्थद्वादशकीबृहतीति तल्लक्षणयोगात् आद्यावास्तोष्पतिदेवताका शिष्टाऎंद्मः तथाचानुक्रान्तं-अमीवहाष्टौ वास्तोष्पत्याद्या गायत्री शेषास्त्र्युपरिष्टाद्बृहत्या- दयोनुष्टुभः प्रस्वापिन्यउपनिषदिति । गतोविनियोगः । बृहद्देवतायां यदुक्तं तदिहलिख्यते-वरुणस्य गृहान् रात्रौवसिष्ठः स्वप्नमाचरन् । प्रविवेशाथतंतत्रश्वानदन्नभ्यवर्तत ॥ १ ॥
क्रन्दंतंसारमेयंस धावंतंदष्टुमुद्यतम् । यदर्जुनेतिचद्वाभ्यांसांत्वयित्वाह्यसुष्वपत् ॥ २ ॥
एवंप्रस्थापयामासजनमन्यंचवारुणमिति ॥ ३ ॥
अत्रकेचित्पुनरेवमाहुः-आसांप्रस्वापिनित्वंतुकथासुपरिकल्प्यते । वसिष्ठरतृषितोन्नार्थी- त्रिरात्रालब्धभोजनः ॥ ४ ॥
चतुर्थरात्रौचौर्यार्थंवारुणंगृहमेत्यनु । कोष्ठागारेप्रवेशायपालकश्वादिसुप्तये ॥ ५ ॥
यदर्जुनेतिसप्तर्चंददर्शचज- जापचेति ॥ ६ ॥