श्रवणम्

7.89.1
मो षु व᳚रुण मृ॒न्मयं᳚ गृ॒हं रा᳚जन्न॒हं ग᳚मम् ।
मृ॒ळा सु᳚क्षत्र मृ॒ळय᳚ ॥
▶ पदपाठः (Word-by-word)
मो इति᳚ । सु । व॒रु॒ण॒ । मृ॒त्॑मय᳚म् । गृ॒हम् । रा॒ज॒न् । अ॒हम् । ग॒म॒म् ।
मृ॒ळ । सु॒॑क्ष॒त्र॒ । मृ॒ळय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन्नीश्वर वरुण त्वदीयं मृन्मयं मृदादिनिर्मितं गृहं मो माउ मैव अहं गमं गतोस्मि अपितु सुशोभनं सुवर्णमयमेव त्वदीयं गृहं प्राप्न- वानि सत्वं मां मृळ सुखय हे सुक्षत्र शोभनधन वरुण मृळय उपदयाञ्च कुरु ॥ १ ॥