श्रवणम्

7.89.2
यदेमि᳚ प्रस्फु॒रन्नि᳚व॒ दृति॒र्न ध्मा॒तो अ᳚द्रिवः ।
मृ॒ळा सु᳚क्षत्र मृ॒ळय᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । एमि᳚ । प्र॒स्फु॒रन्॑इ᳚व । दृतिः᳚ । न । ध्मा॒तः । अ॒द्रि॒॑वः॒ ।
मृ॒ळ । सु॒॑क्ष॒त्र॒ । मृ॒ळय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवः आयुधवन्वरुण यद्यदा प्रस्फुरन्निव शैत्येन प्रविचलन्निव त्वद्भयाद्वेपमानः दृतिर्न दृतिरिव ध्मातो वायुना पूर्णः सन् त्वया बद्धोहं एमि गच्छामि तदानीं मृळ सुखय हे सुक्षत्र सुधन मृळय दयां कुरु ॥ २ ॥