श्रवणम्

7.89.4
अ॒पां मध्ये᳚ तस्थि॒वांसं॒ तृष्णा᳚विदज्जरि॒तार᳚म् ।
मृ॒ळा सु᳚क्षत्र मृ॒ळय᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । मध्ये᳚ । त॒स्थि॒॑वांस᳚म् । तृष्णा᳚ । अ॒वि॒द॒त् । ज॒रि॒तार᳚म् ।
मृ॒ळ । सु॒॑क्ष॒त्र॒ । मृ॒ळय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपां समुद्राणामुदकानां मध्ये तस्थिवांसं स्थितवन्तमपि जरितारं तव स्तोतारं मां तृष्णा पिपासा अविदत् आप्तवती लवणोत्कटस्य समुद्रजलस्य पानानर्हत्वात् अतस्तादृशं मां मृळ सुखय अन्यद्गतम् ॥ ४ ॥

देवसुवं हविःषु वारुणस्य हविषाः यत्किञ्चेदमितियाज्या सूत्रितञ्च-यत्किञ्चेदंवरुणदैव्येजनौपतेस्तोमान्पशुपाइवाकरमिति द्वे इति । षष्ठोनुवाके पञ्चदश सूक्तनि तत्र प्रवीरयेति सप्तर्चं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम् यासुपञ्चम्याद्यासु द्विवचनमस्ति ताऎन्द्रवायव्यः तथाचानुक्रान्तम्-प्रवीरयासप्त वायव्यं त्द्यैन्ड्मश्च या द्विवदुक्ताइति । तृतीयेछन्दोम प्रउगशस्त्रे प्रवीरयेतिवायव्यस्तृचः सूत्रितञ्च प्रवीरयाशुचयोदद्रिरेवा तेसत्येनमनसादीध्यानाइति ।