दे॒वाना॒मिदवो᳚ म॒हत्तदा वृ᳚णीमहे व॒यम् ।
वृष्णा᳚म॒स्मभ्य᳚मू॒तये᳚ ॥
वृष्णा᳚म॒स्मभ्य᳚मू॒तये᳚ ॥
पदपाठः (Word-by-word)
दे॒वाना᳚म् । इत् । अवः᳚ । म॒हत् । तत् । आ । वृ॒णी॒म॒हे॒ । व॒यम् ।
वृष्णा᳚म् । अ॒स्मभ्य᳚म् । ऊ॒तये᳚ ॥
वृष्णा᳚म् । अ॒स्मभ्य᳚म् । ऊ॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे देवाः देवानां स्वतेजसा सर्वतोदीप्यमानानां इत् एवार्थे युष्माकमेव महत् व्याप्तं मंहनीयंवा अवः पालनं यद्विद्यते तद्वृष्णां कामानां वर्षितॄणां युष्माकं तद्रक्षणं यजमानावयं आवृणीमहे समंतात्संभजामहे । किमर्थमस्मभ्यमूतये पूर्वमस्मभ्यमस्मदर्थमिति साधारण्येनोक्त्वा तद्विशिनष्टि ऊतयइति अस्माकं पालनायेति ॥ १ ॥