श्रवणम्

8.83.7
अधि᳚ न इन्द्रैषां॒ विष्णो᳚ सजा॒त्या᳚नाम् ।
इ॒ता मरु᳚तो॒ अश्वि᳚ना ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । नः॒ । इ॒न्द्र॒ । ए॒षा॒म् । विष्णो॒ इति᳚ । स॒॑जा॒त्या᳚नाम् ।
इ॒त । मरु᳚तः । अश्वि᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र विष्णो मरुतः हे अश्विना अश्विनौ हे इन्द्रादयोदेवाः सजात्यानां समानायां जातौ भवाः सजात्याः भ्रातृमित्रादयः तेषामेषां मध्ये नोस्मान् अधीत यूयं स्तुत्द्यतया अधिगच्छत ॥ ७ ॥